रागः
- योऽसौ ध्वनिविशेषस्तु स्वरवर्णविभूषितः ।
- रञ्जको जनचित्तानां स च राग उदाहृतः ।।
रागः (Raga) नाम षड्जादीनां स्वराणां समूहः । सङ्गीतं स्वाराणाम् एका भाषा। प्रत्येकः स्वरः अन्तःकरणस्य भावतरङ्गान् प्रसारयति । स्वरसहिताः रागाः अनिर्वचनीयम् आनन्दं ददन्ति। रागरसयोः प्रत्यक्षसंबन्धं कल्पयितुं नशक्यते। तथापि भावनानां जागरणेन रसनिर्माणकार्ये कारणीभूताः रागाः। रसाभिव्यक्तेः कारणानि गायनशैली, योग्यः कण्ठस्वरः, उच्चारणम्, लयः, गीतशब्दानि तथा भावाः भवन्ति । विविधरागाणां श्रवणेन भिन्न भिन्न भावतरङ्गाः मनसि स्वविचारान् भावान् अभिव्यञ्जयन्ति । गम्भीरस्वरयुक्तैः शङ्करा, कामोद, केदाररागः,अढाण, हमीर तथा नटादि स्वरैः शान्तरसस्य उत करुणरसस्य निष्पत्तिः नभवति । एवमेव ॠजुस्वरैः श्रीरागः, भैरवी, जोगिया, आसावरिरागः, तोडिरागः, पीलु इत्यादिभिः रौद्ररसस्य उत वीररसस्य निष्पत्तिः नभवति । रागालापनेन तत्तत्त रागसम्बन्धित देवताः सन्तुष्टाः भवन्ति। उदाहरणार्थम्, शङ्करा, भैरवरागः, केदाररागःरागान् गायते चेत् शिवः तुष्टः भवति । "दीपकरागं" यदा "तानसेनः" गीतवान् तदा दीपः प्रज्वलितः आसीत् । बिलासखानि तोडिरागं यदा गीतवान् तदा मृतशरीरे नेत्रोऽन्मीलनक्रिया जाता इति ।
विभागः
[सम्पादयतु]प्रधान-अप्रधान, जन्य-जनक, प्राचीन-अर्वाचीन, घन-नय, मार्गि-देशि, मेळकर्त-मेळांतर्गत, राग-रागिणि, पुंराग-स्त्रीराग-नपुंसकराग इति रागान् विभागं कुर्वन्ति।
रागोत्पत्तिः
[सम्पादयतु]सामवेदात् स्वराः जाताः स्वरेभ्यो ग्रामसम्भवः।
ग्रामेभ्यो जातयो जाताः जातिभ्यो रागसम्भवः॥
सप्तस्वराः त्रयो ग्रामाः मूर्छनाश्चैकविंशतिः।
द्वाविंशतिश्च श्रुतयः एतेभ्यो रागसम्भवः॥
लक्षणानि
[सम्पादयतु]रञ्जयति मनांसीति रागास्ते दशलक्षणाः
मतङ्गमुनिः रागस्य दशलक्षणानि उक्तानि सन्ति।
ग्रहांशाः तारमन्द्रौच न्यासोपन्यास एव च।
अल्पत्वं च बहुत्वंच षाडवौडविते तथा॥ इति।
- ग्रह- रागारम्भस्य नियमित स्थलम्।
- अंश- रागस्य प्रधानम् उत जीवस्वरः। रागस्य स्पष्टतया निजस्वरूपनिरूपणे मुख्यः स्वरः
- तार- सप्तके स्वरसञ्चारः।
- मन्द्र- अधो सप्तके स्वरसञ्चारः।
- न्यास- रागस्य अन्त्यस्वरः।
- उपन्यास- रागस्य मध्ये मध्ये स्थगनस्थानम्।
- अल्पत्व- रागे विरलतया उपयुज्यमानाः स्वराः।
- बहुत्व- रागे पुनः पुनः उच्यार्यमाणाः स्वराः।
- षाडव- ६ स्वराणां प्रयोगः।
- ओडव- ५ स्वराणां प्रयोगः।
समयः
[सम्पादयतु]- ॠतूनाम् अनुसारेण रागाणां विभागः।
- वसन्तॠतौ- वसन्तरागः
- ग्रीष्मॠतौ – भैरवरागः
- शरदृतौ – पञ्चमरागः
- वर्षाऋतौ- मेघरागः
- हेमन्तऋतौ- नटनारायणिरागः
- प्रातः ६ तः ९ पर्यन्तं गानयोग्याः रागाः देशकारि, भैरवरागः, सिन्धुभैरवि, रामकलिरागः,तथा बिभासदि भवन्ति।
- ९ तः १२ पर्यन्तं गानयोग्याः रागाः आसावरिरागः, बिलावलरागः, तोडिरागः भवन्ति।
- १२ तः ३ पर्यन्तं गानयोग्याः रागाः सारङ्गरागः, गौडमल्हार, बृन्दावनिसारङ्गादि भवन्ति।
- ३ तः ६ पर्यन्तं गानयोग्याः रागाः मुल्तानि, श्रीरागः, पूरियारागः, गौरीरागः, भीम्पलासादि भवन्ति।
- ६ तः रात्रौ ९ पर्यन्तं गानयोग्याः रागाः भूपालिरागः, माण्ड, तिलककामोद, तिलङ्ग, बिहागरागः, देश, काफि इत्यादयः भवन्ति।
- ९ तः १२ पर्यन्तं गानयोग्याः रागाः दर्बारिकानडा, मालकंसरागः, भाग्यश्रीरागः इत्यादयः भवन्ति।
- १२ तः (प्रातः)३ पर्यन्तं गानयोग्याः रागाः वसन्तरागः, परजरागः, ललितपञ्चम इत्यादयः भवन्ति।
- ३ तः ६ पर्यन्तं गानयोग्याः रागाः भैरवरागः, ललितरागः,भटियारादि भवन्ति।
रागाः
[सम्पादयतु]प्रसिद्धाः रागाः भवन्ति।
भैरवरागः | भैरवीरागः | मालकंसरागः | (बसन्त)वसन्तरागः | आसावरिरागः | भूपालिरागः |
सारङ्गरागः | हिण्डोलरागः | गुजरितोडिरागः | रामकलिरागः | वागेश्वरीरागः | खम्बावतीरागः |
परजरागः | भीम्पलासरागः | श्रीरागः | सोहनीरागः | पूर्विरागः | (बृन्दावनीसारङ्ग)बडहंसरागः |
(मिया की तोडि) शुद्धतोडिरागः | खटरागः | (सोरट्)सोरठिरागः | त्रिवेणीरागः | मालवीरागः | बङ्गालीभैरवरागः |
(कुकुभ्)ककुभरागः | पञ्चमरागः | गौरीरागः | (मल्हार)मेघरागः | केदाररागः | गुणकलिरागः |
बिभासरागः |
मतभेदाः
[सम्पादयतु]- नारदमतम्
अस्य मतानुसारेण ८ मुख्याः रागाः सन्ति।
- भूपरागः- मेलावति, मल्हार, बहुलि।
- भैरवरागः- देवक्रिय, पौरालि, काम्भारि।
- श्रीरागः- काम्बोजि, भल्लाति, कुरञ्जिका।
- पटमञ्जरि- देशि, मनोहरि, तुण्डीरागः।
- वसन्तरागः- पराटि, द्राविडि, हंसि।
- मालवि – गुण्डक्रिया, धूर्जरि, गौडि।
- नाट- सारङ्गरागः, नटाख्य, अहिरि।
- बङ्गाल- नारायणी, गान्धारि, रञ्जी।
- हनूमान् मतम्
अस्य मतानुसारेण ६ मुख्याः रागाः भवन्ति।
- भैरवरागः- मध्यमादी, भैरवीरागः, बङ्गाली, वराटी, सैन्धवी।
- कौशिक- तोडीरागः, खम्बावतीरागः, गौडी, गुणक्री,ककुभरागः।
- हिण्डोलरागः- भेलावली, रामकलिरागः, देशाख्य, पटमञ्जरी, ललितरागः।
- श्रीरागः- वसन्तरागः, मालवीरागः, मालश्री, दनाश्री, आसावरिरागः।
- मेघरागः- मल्हारि, देशकार, भूपालिरागः, गुर्जरि,टक्क।
- सोमेश्वरमतम्
स्वरचिते “सङ्गीतदर्पण” ग्रन्थे ६ मुख्याः रागाः इति लिखति।
- श्रीरागः – मालवीरागः, त्रिवेणीरागः, गौडी, केदाररागः, मधुमाधवी, पहाडी।
- वसन्तरागः- देशी, देवगिरी, वैराटी, तोडी, ललितरागः, हिण्डोलरागः।
- भैरवरागः- भैरवीरागः, मध्यमादी, वराची, सैन्धवी, बङ्गाली, देवक्रिया।
- पञ्चमरागः- बिभासरागः, भूपालिरागः, कर्नाटी, पटहंसिका, मालाश्री, पटमञ्जरी।
- मेघरागः-मल्हारी, सोरठिरागः, सावेरी, कौशिकी, गान्घारी, हरशृङ्गार।
- नट- कामोदी, कल्याणी,आभिरी, नाटिका, सालङ्गी, नट्टवीर।
श्रव्यम्
[सम्पादयतु]दर्बारिकानडा
मुल्तानी
दुर्गा
यमन्(सितार्)
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- A step-by-step introduction to the concept of raga for beginners
- Rajan Parrikar Music Archive - detailed analyses of ragas backed by rare audio recordings
- Comprehensive reference on raagas
- Krsna Kirtana Songs Ragamala Archived २०१५-०३-३१ at the Wayback Machine — an informative database with over ninety rāgas (audio clips coming soon), tutorial on the North Indian notation system, rāga classification, and explanation of how rāgas work.
- Hindustani Raga Sangeet Online A rare collection of audio & video archives from 1902. Radio programs dedicated to famous ragas.
- Online quick reference of rāgams in Carnatic music.
- Basics of Hindustani Classical Music for Listeners: a downloadable PDF, and an online video talk Archived २०१२-०३-२८ at the Wayback Machine.