अहि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अहिः, पुं, (आहन्तीति । आ + हन् + इण् । हन हिंसागत्योः । आङि श्रिहनिभ्यां ह्रस्वश्चेति इण् । स च डित् । डित्वात् टिलोपः । आङो ह्रस्वश्च ।) वृत्रासुरः । सर्पः । इत्यमरः । सूर्य्यः । पथिकः । राहुः । इत्यनेकार्थध्वनिमञ्जरी ॥ (सीसकं । राहुः । वप्रः । अश्लेषानक्षत्रं । खलः । “विष- धरतोऽप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः । यदहिर्नकुलद्वेषी स्वकुलद्वेषी पुनः पिशुनः” । इति वासवदत्तायाः प्रस्तावनाश्लोकः ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अहि पुं।
सर्पः
समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल
1।8।6।2।5
मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः। सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः॥
अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः
वृत्तिवान् : सर्पग्राहिः
: सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः
अहि पुं।
वृत्रासुरः
समानार्थक:वृत्र,अहि
3।3।239।2।1
दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः। व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः॥
पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अहि¦ पु॰ आहन्ति आ + हन + डिन् टिलोपः आङो ह्रस्वश्च।
१ सर्पे, लोकप्रसिद्धसर्पभेदादि सुश्रुते दर्शितम्।
“अशीतिस्त्वेव सर्पाणां भिद्यते पञ्जधा तु सा”।
“दर्व्वी-करा मण्डलिनो राजिमन्तस्तयैव च। निर्व्विषा वैक-रञ्जाश्च त्रिविधास्ते पुनः स्मृताः॥ दर्व्वीकरा मण्डलिनोराजिमन्तश्च पन्नगाः। तेषु दर्व्वीकरा ज्ञेया विंशतिःषट्चपन्नगाः। द्वाविंशतिर्मण्डलिनो राजिमन्तस्तथा दश। निर्व्विषा द्वादश ज्ञेया वैकरञ्जास्त्रयस्तथा। वैकरञ्जोद्भवाःसप्त चित्रामण्डलिराजिलाः। पदाभिमृष्टा दुष्टा वाक्रुद्धा ग्रासार्थिनोऽपि वा। ते दशन्ति महाक्रोधास्तद्धित्रिविधमुच्यते। सर्पितं रदितं वापि तृतीयमथ निर्व्वि-षम्। सर्पाङ्गाभिहतं केचिदिच्छन्ति खलु तद्विदः। पदानि यत्र दन्तानामेकं द्वे वा बहूनि च॥ निमग्नान्य-ल्परक्तानि यान्युद्धृत्य करोति हि। चञ्चुमालकयुक्तानिवैकृत्यकरणानि च। सङ्क्षिप्तानि सशोफानि विद्यात्तत्सर्पितं भिषक्। राज्यः सलोहिता यत्र नीलाः पीताःसितास्तथा। विज्ञेयं रदितं तत्तु ज्ञेयमल्पविषञ्च तत्। अशोफमल्पदुष्टासृक् प्रकृतिस्थस्य देहिनः। पदं पदानिवा विद्यादविषं तच्चिकित्सकः। सर्पस्पृष्टस्य भीरोर्हिभ-येन कुपितोऽनिलः। कस्यचिद् कुरुते शोफं सर्पाङ्गाभि-हतन्तु तत्। व्याधितोद्विग्नदष्टानि ज्ञेयान्यल्पविषाणितु। तथातिवृद्धबालातिदष्टमल्पविषं स्मृतम्। सुपर्ण-देवब्रह्मर्षियक्षसिद्धनिषेविते॥ विषघ्नौषधियुक्ते च देशेन क्रमते विषम्। रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कु-शधारिणः॥ ज्ञेयादर्व्वीकराः सर्पाः फणिनः शीघ्र-गामिनः। मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः॥ ज्ञेया मण्डलिनः सर्पा ज्वलनार्कसमप्रभाः। स्निग्धाविविधवर्णामिस्तिय्युगूर्द्ध्वन्तु राजिभिः॥ चित्रिता इवये भान्ति राजिमन्तस्तु ते स्मृताः। मुक्तारूप्यप्रभाये च कपिला ये च पन्नगाः॥ सुगन्धिनः सवर्णा-भास्ते जात्या ब्राह्मणाः स्मृताः। क्षत्रियाः स्निग्ध-वर्णास्तु पन्नगा भृशकोपनाः॥ सूर्य्यचन्द्राकृति च्छत्नंलक्ष्म तेषां तथाम्बुजम्। कृष्णा वज्रनिभा ये च लोहितावर्णतस्तथा। धूम्राः पारावताभाश्च वैश्यास्ते पन्नगाःस्मृताः॥ महिषद्वीपिवर्ण्णाभास्तथैव परुषत्वचः। भिन्न-[Page0581-b+ 38] वर्णाश्च ये केचिच्छूद्रास्ते परिकीर्त्तिताः॥ कोपयन्त्यनिलंजन्तोः फणिनः सर्व्व एव तु। पित्तं मण्डलिनश्चापिकफञ्चानेकराजयः॥ अपत्यसमवर्णाभ्यां द्विदोषकरलक्षणम्। ज्ञेयौ दोषैश्च दम्पत्योर्विशेषश्चात्र वक्ष्यते॥ रजन्याःपश्चिमे यामे सर्पाश्चित्राश्चरन्ति हि। शेषेषूक्ता मण्ड-लिनो दिवा दर्व्वीकराः स्मृताः॥ दर्व्वीकरास्तु तरुणावृद्धा मण्डलिनस्तथा। राजिमन्तो वयोमध्ये जायन्तेमृत्युहेतवः॥ नकुलाकुलिता बाला वारिविप्रहताःकृशाः। वृद्धा मुक्तत्वचो भीताः सर्पास्त्वल्पविषाः स्मृताः। तत्र दर्व्वीकराः। कृष्णसर्पो हाहाकृष्णः कृष्णोदरः श्वेत-कपोतो महाकपोतो वलाहको महासर्पः शङ्खपालोलोहिताक्षो गवेधुकः परिसर्पः खण्डफणः ककुद-पद्मो महापद्मो दर्भपुष्पो दधिमुखः पुण्डरीको भ्रुकुटी-मुखो विष्किरः पुष्पाभिकीर्णो गिरिसर्प ऋजुसर्पः श्वेतो-दरो महाशिरा अलगर्द्दो आशीविष इति॥ मण्ड-लिनस्तु। आदर्शमण्डलः श्वेतमण्डलो रक्तमण्डलश्चि-त्रमण्डलः पृषतो रोध्रपुष्पो मिलिन्दको गोनसो वृद्ध-गोनसः पनसो महापनसो वेणुपत्रकः शिशुको मदनःपालिंहिरः पिङ्गलस्तन्तुकः पुष्पपाण्डुः षडगोऽग्निकीबभ्नुः कषायः कलुषः पारावतो हस्ताभरणश्चित्रक एणी-पद इति॥ राजिमन्तस्तु। पुण्डरीको राजिचित्रो-ऽङ्गुलराजिर्विन्दुराजिः कर्दमकस्तृणशोषकः सर्षपकःश्वेतहनुर्दर्भपुष्पश्चक्रको गोधूमकः किक्किसाद इति॥ निर्व्विषास्तु। गलगोली शूकपत्रोऽजगरो दिव्यकोवर्षाहिकः पुष्पशकली ज्योतीरथः क्षीरिकापुष्पकोऽन्धाहिकोऽहिपताकोगौराहिको वृक्षेशय इति। वैकर-ञ्जास्तु त्रयाणां दर्व्वीकरादीनां व्यतिकराज्जाताः। तद्यथा। माकुलिः पोटगलः स्निग्धराजिरिति। तत्रकृष्णसर्पेण गोनस्यां वैपरीत्येन वा जातो माकुलिः। राजिलेन गोनस्यां वैपरीत्येन वा जातः पोटगलः। कृष्णसर्पेण राजिमत्यां वैपरीत्येन वा जातः स्निग्धराजि-रिति। तेषामाद्यस्य पितृवद्विषोत्कर्षो द्वयोर्मातृवदित्येके। त्रयाणां वैकरञ्जानां पुनर्दिव्येलकरोध्रपुष्पकराजिचित्रकाःपोटगलः पुष्पाभिकीर्णो दर्भपुष्पो वेल्लितकः सप्त तेषा-माद्यास्त्रयो राजिलवत् शेषा मण्डलिवत्। एवमेतेषांसर्पाणामशीतिरिति। तत्र महानेत्रजिह्वास्यशिरसःपुमांसः, सूक्ष्मनेत्रजिह्वास्यशिरसः स्त्रियः। उभय-लक्षणामन्दविषा अक्रोधा नपुंसका” इति। तेषां[Page0582-a+ 38] बहूनि पुराणे नामान्युक्तानि तेषां प्रधान्यतो भारते कति-चिदुक्तानि
“बहुत्वान्नामधेयानि पन्नगानां तपोधन!। नकीर्त्तयिष्ये सर्व्वेषां प्राघान्येन तु मे शृणु। शेषः प्रथमतोजातो वासुकिस्तदनन्तरम्। ऐरावतस्तक्षकश्च कर्कीटकधन-ञ्जयौ। कालियो मणिनागश्च नागश्चापूरणस्तथा। नागस्तथापिञ्जरक एलापत्रोऽथ वामनः। नीलानीलौ तथा नागौकल्माषशवलौ तथा। आर्य्यकश्चोग्रकश्चैव नागः कलश-पोतकः। सुरामुखो दधिमुखस्तथा विमलपिण्डकः। आप्तः करोटकश्चैव शङ्खो वालिशिखस्तथा। निष्णानकोहेमगुहो नहुषः पिङ्गलस्तथा। बाह्यकर्णो हस्तिपदस्तथामुद्गरपिण्डकः। कम्बलाश्वतरौ चापि नागः कालीयकस्तथावृत्तसंवर्त्तकौ नागौ द्वौ च पद्माविति श्रुतौ। नागः शङ्ख-मुखश्चैव तथा कुष्माण्डकोऽपरः। क्षेमकश्च तथा नागोनागः पिण्डारकस्तथा। करवीरः पुष्पदंष्ट्रो विल्वकोविल्वपाण्डरः। मूषकादः शङ्खशिराः पूर्णभद्रो हरिद्रकः। अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा। कौरव्योधृतराष्ट्रश्च शङ्खपिण्डश्च वीर्य्यवान्। विरजाश्च सुबाहुश्च शालि-पिण्डश्च वीर्य्यवान्। हस्तिपिण्डः पिठरकः सुमुखः कौण-पाशनः। कुठरः कुञ्जरश्चैव तथा नागः प्रमाकरः। कुमुदःकुसुदाक्षश्च तित्तिरिर्हलिकस्तथा। कर्द्दमश्च महानागोनागश्च बहुमूलकः। कर्कराकर्करौ नागौ कुण्डोदरमहो-दरौ। एते प्राधान्यतो नागाः कीर्त्तिता द्विजसत्तम!। बहुत्वान्नामधेयानामितरे नानुकीर्त्तिताः। एतेषां प्रसवोयश्च प्रसवस्य च सन्ततिः। असंख्येयेति मत्या तान्नव्रवीमि तपोधन!। बहूनीह सहसाणि प्रयुतान्यर्व्वुदानि। च। अशक्यान्येव संख्यातुं पन्नगानां तपोधन! भा॰ आ॰
३५ अ॰।
“अहिपरिकरभाजो भास्मनैरङ्गरागैः” माघः। महतोऽप्येनसोमासात्त्वचेवाहिर्विमुच्यते”
“नपक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम्” लूताहिशरटानाञ्च तिरश्चां चाम्बुचारिणमिति” च मनुः।
३ सूर्य्ये,इन्
४ राहौ,
५ पथिके, अह--व्याप्तौ इन्।
६ वृत्रासुरे तस्यसर्व्वलोकव्यापकत्वात्तन्नामकत्वम् स च विश्वरूपपितु-स्त्वष्टुःपुत्रः तदुत्पत्तिकथा भाग॰
६ स्क॰
९ अ॰
“हतपुत्र-स्ततस्त्वष्टा जुहावेन्द्राय शत्रवे। इन्द्रशत्रो! विबर्द्ध्वस्वमा चिरं जहि विद्विषम्। अथान्वाहार्य्यचनादुत्थितोघोरदर्शनः। कृतान्त इव लोकानां युगान्तसमये यथा। विष्वग्विवर्द्धभानं तमिषुमानं दिनेदिने। दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्च्चसम्॥ तप्तताम्रशिखा-[Page0582-b+ 38] श्मश्रुं मध्याह्नार्कोग्रलोचनम्। देदीप्यमाने त्रिशिखे शूलआरोप्य रोदसी॥ अत्यन्तमुन्नयन्तञ्च चालयन्तं पदा महीम्। दरीगम्भीरवक्त्रेण पिवता च नभस्तलम्॥ लिहता जिह्वय-र्क्षाणि ग्रसता भुवनत्रयम्। महता रौद्रदंष्ट्रेण जृम्भ-माणं मुहुर्मूहुः। वित्रस्तादुद्रुवुर्लोकावीक्ष्य सर्व्वे दिशो-दिश॥ येनावृताइमे लोकास्तपसा त्वाष्ट्रमूर्त्तिना। सर्व्वे-वृत्र इति प्रोक्तः पापः परमदारुणः”॥
७ खले,
८ वञ्चके,
९ सर्पस्वामिके अश्लेषानक्षत्रे च।
“मृदुगणस्तीक्ष्णोऽहि रुद्रे-न्द्रयुक्” ज्यो॰।
“द्रुतं धनुःखण्डमिवाहिद्विविषः” किरा॰।
“अद्विषस्तद्भवता निशम्यताम्” माघः।
१० आहन्तरि त्रि॰
“अहिरसि बुध्न्यः” ताण्ड्य॰। अहिराहन्तारिप्रभृतीनाम्” मा॰। अह--व्याप्तौ इन्।
११ जले महीव्यापित्वात्तत्त्वम्
१२ व्यापके
१३ व्याप्ते च त्रि॰।
१४ द्यावापृथिव्योः द्वि॰ व॰
१५ पृथिव्यां
१
६ स्त्रीगव्याञ्च स्त्री वा ङीप् नागनामत्वात्तज्जातत्वाच्च
१७ सीसे धातौ। तस्योत्पत्त्यादिकम् भावप्र॰
“दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु व्यमोचयत्” वीर्य्यंजातस्ततो नागः सर्वरोगापहोनृणाम्” सीसं बध्नं तथावप्रंयोगेष्टं नागनामकम् (नागोभुजशः) सीसं रङ्गगुणं ज्ञेयंविशेषान्मेहनाशनम्। नागस्तु नागशततुल्यबलं ददातिव्याधिं विनाशयति जीवनमातनोति। वह्निं प्रदीपयतिकामबलं करोति मृत्युं च नाशयति सन्ततसेवितः सः। पाकेन हीनौ किल वङ्गनागौ कुष्ठानि गुण्मांश्च तथा-तिकष्टम्। पाण्डुप्रमेहानिलमादशोथभगन्दरादीन् कुरुतःप्रभुक्तौ” तस्य पाकविधिमाह तत्रैव। ताम्बूलरससंपिष्टशिलालेपात् पुनः पुनः। द्वात्रिंशद्भिः पुटैर्नागोनिरूप्यं भस्म जायते। (शिला मनःशिला) अन्यच्च।
“अश्वत्थचिञ्चात्वक्चूर्ण्णं चतुर्थाशेन निक्षिपेत्। तत्पात्रेविद्रुतो नागो लोहदर्व्या प्रचालितः। यामैकेन भवेद्भस्मतत्तुल्या स्यान्मनःशिला। काञ्जिकेन द्वयं घृष्ट्वा पचेत्दृढपुटेन तम्। स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेनच। पुनः पचेत् समेताभ्यामेवं षष्टिपुटैर्मृतिः”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अहि¦ m. (-हिः)
1. A snake or serpent.
2. The sun.
3. A traveller.
4. Lead.
5. The name of a demon: see वृत्रासुर।
6. A name of RA4HU, the ascending node. E. आङ् prefixed to हन् to hurt, इन् Una4di affix; injuring all or every thing, the आ of आङ् is made short.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अहि [ahi], a. Killing; pervaded, pervading. -हिः [आहन्ति, आ-हन्-इण् स च डित् आङो ह्रस्वश्च Uṇ.4.137]
A serpent, snake; अहयः सविषाः सर्वे निर्विषा डुण्डुमाः स्मृताः Ks. 14.84.
The sun.
The planet Rāhu.
A traveller
The demon Vṛitra; रोमहर्षणमत्युग्रं शक्रस्य त्वहिना यथा (युद्धमासीत्) Mb.11.23.12.
A wicked man.
A cheat, rogue.
The Āśleṣā Nakṣatra.
Water.
Earth.
A milch cow.
Lead.
The navel.
A cloud. अहिर्वृत्रासुरे सर्पे... च दुर्जने । Nm. -ही (du.) Heaven and earth. [cf., L. anguis, Gr. ehis].-Comp. -अर्षु a. gliding away like a snake, not facing the enemy. -कान्तः air, wind. -कोषः the slough of a snake. -क्षत्रः, -क्षेत्रः N. of a country in the east.-गोप a. Ved. guarded by a serpent; दासपत्नीरहिगोपा अतिष्ठन् Rv.1.32.11. -घ्नम् the slaying of the serpent or demon Vṛitra. अनु त्वाहिघ्ने अध देव देवा Rv.6.18.14.-घ्नी m. killing snakes. -चक्रम् A certain Tantric diagram.
च्छत्रः N. of a country, conquered by Arjuna and given to Droṇa.
a kind of vegetable poison.
(त्रः) sugar.
the plant मेषशृङ्गी.
(Mar. बडीशेप)
N. of the city अहिच्छत्र. -छत्रकम् a mushroom; Nir.5.16. -च्छत्रकः A variety of inferior gems. Kau. A.2.11. -जित् m.
N. of Kṛiṣṇa (the slayer of the serpent Kāliyā).
N. of Indra. -जिह्वा N. of a plant (नागजिह्वालता; Mar. महाशतावरी or श्वेत उपळसरी)-तुण्डिकः [अहेस्तुण्ड मुखं तेन दीव्यति ठन्, ठञ् वा] a snakecatcher, conjurer, juggler. कुसीदवृत्तयः काण्डकारिणश्चाहि- तुण्डिकाः Śiva. B.31.22. -देवम् N. of the Nakṣatra आश्लेषा. -द्विष्, -द्रुह्, -मार, -रिपु, -विद्विष् m.
an ichneumon.
Indra. द्रुतं धनुष्खण्डमिवाहिविद्विषः Ki.4.27; अहिद्विषस्तद्भवता निशम्य- ताम् Śi.1.41.
Kṛiṣṇa. -नकुलम् snakes and ichneumons. -नकुलिका [अहिनकुलयोर्वैरम् वुन् P.II.4.9, P.IV. 3.125] the natural antipathy between a serpent and an ichneumon. -नामभृत् m. N. of Baladeva.-निर्मोकः, -निर्व्लयनी the slough of a snake. -पताकः a kind of snake (not venomous).
पतिः 'the lord of snakes', Vāsuki; सज्जं धनुर्वहति यो$हिपतिस्थवीयः Ki.14.71.
any large serpent. -पुत्रकः a kind of boat (serpent shaped). -पुष्पः The plant Mesua Roxburghii (Mar. नागकेशर). -पूतनम्, -ना a kind of disease.-फेनः, -नम् 'the saliva or venom of a snake', opium. जातीफलं मातुलानीमहिफेनं च पत्रकम् Śiva. B.3.15.
बु (वु) ध्नः, ब्रध्नः, अहिर्बुध्नः, ध्न्यः one of the Rudras.
Śiva.
Uttarābhādrapadā Nakṣatra.
a name of a Muhūrta. ˚देवता the twenty-sixth lunar mansion.-द्विष् N. of a plant (Mar. मुंगुसवेल). -बीजम् (Mar. खसखस).
भयम् the fear of a lurking snake.
apprehension of treachery, danger arising from one's own allies; ˚दा [अहिं भयं द्यति खण़्डयति दो क] N. of the plant भूम्यामलकी (Mar. भुयआंवळी). -भानु a. Ved.
shining like serpents.
causing the motion of the sun (सूर्यगतिहेतु) as the wind; an epithet of the Maruts; मरुतो अहिभानवः Rv. 1.175.1. -भुज् m.
ichneumon.
N. of a plant (Mar. मुंगुसवेल).m. Śiva. -मन्यु a.
having destructive anger; with unimpaired knowledge.
enraged like serpents; epithet of the Maruts. (-न्युः) the anger of a serpent.-मर्दनी N. of a plant (गन्धनाकुली; Mar. मुंगुसवेल).-माय a. having multiform or versatile forms like a snake, showing a variety of colour and shape, such as Vṛitra.
मारकः, मेदकः N. of a plant (अरिमेद; Mar. गन्धीहिवर)
= ˚द्विष् q. v.
लता the betel-nut plant.
N. of a plant (गन्धनाकुली.) -विषापहा f. 'Neutralizing the poison of snakes', The ichneumon plant (Mar. मुंगुसवेल). -शुष्म a. having all pervading strength; ˚सत्वन् Ved. one whose men hiss like serpents (N. of Indra); आस्माञ्जगम्यादहिशुष्म सत्वा Rv.5.33.5. -सक्थ n. having a long thigh like a serpent. (-क्थः) N. of a country.-हत्यम् Ved. the slaying of the serpent or demon Vṛitra. -हन् a. Killing serpents or Vṛitra, Garuḍa, Indra.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अहि m. ( अंह्) , a snake RV. etc.
अहि m. the serpent of the sky , the demon वृत्रRV.
अहि m. (See. also अहिर्बुध्न्यस्below)
अहि m. a cloud Naigh.
अहि m. water ib.
अहि m. the sun L.
अहि m. a N. of राहुL.
अहि m. a traveller L.
अहि m. the navel L.
अहि m. lead L.
अहि m. (in arithm. ) the number eight
अहि m. N. of a ऋषि(with the patron. औशनस)and of another (with the patron. पैद्व). ([ Zd. az8i ; Lat. angui-s ; Gk. ? , ? , ? , and ? ; Lith. ungury-s ; Russ. ? ; Armen. o7z ; Germ. unc.])
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Ahi.--This word occurs frequently from the Rigveda[१] onwards to denote ‘snake.’ Reference is several times[२] made to its casting its slough. Mention is also made of the serpent's peculiar movement,[३] which earns for it the designation[४] of ‘the toothed rope’ (datvatī rajjuḥ). The poisonous character of its bite is spoken of,[५] as well as the torpidity of the reptile in winter, when it creeps into the earth.[६] The cast skin is used as an amulet against highwaymen.[७] Mention is made of a mythical horse, Paidva, which the Aśvins gave to Pedu as a protection against snakes,[८] and which is invoked as a destroyer of serpents.[९] The ichneumon (nakula) is regarded as their deadly enemy, and as immune against their poison through the use of a healing plant,[१०] while men kill them with sticks[११] or strike off their heads.[१२]
Many species of snakes are mentioned: see Aghāśva, Ajagara, Asita, Kaṅkaparvan, Karikrata, Kalmāṣagrīva, Kasarṇīla, Kumbhīnasa, Tiraścarāji, Taimāta, Darvi, Daśonasi, Puṣkarasāda, Pṛdāku, Lohitāhi, Śarkoṭa, Śvitra, Sarpa.
- ↑ vii. 104, 7, etc. The word sarpa, which is usual in the Atharvaveda, occurs only once (x. 16, 6) in the Rv.
- ↑ Rv. ix. 86, 44;
Av. i. 27;
Satapatha Brāhmaṇa, xi. 2, 6, 13;
Bṛhadāraṇyaka Upaniṣad, iv. 4, 10;
Jaiminīya Brāhmaṇa, i. 9. ii. 139;
Kāṭhaka Upaniṣad, ii. 6;
17. - ↑ Aitareya Āraṇyaka, v. 1, 4.
- ↑ Av. iv. 3, 2.
- ↑ Rv. vii. 104. 7;
Av. x. 4, 4 et seq.;
6, 56. - ↑ Av. xii. 1, 46.
- ↑ Av. i. 27.
- ↑ Rv. i. 117-119
- ↑ Av. x. 4, 6. 10.
- ↑ Av. vi. 139, 5;
viii. 7, 23. - ↑ Av. x. 4, 9.
- ↑ Av. vi. 67, 2. See Zimmer, Altindisches Leben, 94, 95.