हे चतुर, वद उत्तरम् !
|
अपूर्वोऽयं मया दृष्टः कान्तः कमललोचने ।
शोऽन्तरं यो विजानाति स विद्वान्नात्र संशयः ॥
अस्य श्लोकस्य भासमानः अर्थः, वास्तविकः अर्थः इति अर्थद्वयम् ।
- हे सुन्दरि, अपूर्वं कान्तञ्च किञ्चन वस्तु मया दृष्टम् । मध्ये 'शो' इति
विद्यते । इदं यः जानाति सः पण्डितः ।
- हे सुन्दरि, आदौ अकारयुक्तम्, अन्ते ककारयुक्तं, मध्ये शोकारयुक्तञ्च
वस्तु मया दृष्टम् । इदं यः जानाति सः पण्डितः ।
|
|
|
|
|
अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता ।
त्रयश्शिष्यगुणा ह्येते मूर्खाचार्यस्य भाग्यजाः ॥
केचन शिष्याः अन्या गतिः नास्ति इत्यतः गुरोः समीपम् आगच्छन्ति । पुनः केचन अतिश्रद्धावन्तः भवन्ति । अन्ये केचन ज्ञानाभासं प्राप्यैव तृप्ताः भवन्ति । एते त्रिविधाः शिष्याः मूर्खाचार्यैः सौभाग्यात् एव प्राप्यन्ते ।
|
|
|
|